पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४ प्रक.]
177
औपनिधिकम्

 "साक्षिवालिश्येष्वेव पृथगनुपयोगे देशकालकार्याणां पूर्व मध्यमोत्तमा दण्डा" इत्यौशनसाः।
 "कूटसाक्षिणो यमर्थभूतं वा नाशयेयुस्तद्दशगुणं दण्डं[१] दध्युरिति" मानवाः ।
 "बालिश्याद्वा विसंवादयतां चित्रो घातः" इति बार्हस्पत्याः।
 "न" इति कौटि[२]ल्य । ध्रुवं हि साक्षिभिश्श्रोतव्यम् । अशृ- ष्वतां चतुर्विंशतिपणो दण्डः ततोऽर्धमध्रुवाणाम्[३]

देशकालाविदूरस्थान साक्षिण, प्रतिपादयेत् ।
दूरस्थानप्रसारान्वा स्वामिवाक्येन साधयेत् ॥

इति धर्मस्थीये ऋणादानं एकादशोऽध्याय'

आदितोऽष्टषष्ठितम .


६४ प्रक. औपनिधिकम्.


 उपनिधिः ऋणेन व्याख्यातः । परचक्राटविकाभ्यां दुर्गरा- ष्ट्रविलोपे वा, प्रतिरोधकैर्वा ग्रामसार्थव्रजविलोपे, चक्रयुक्ते नाशे वा, ग्राममध्याग्नयुदकाबाधे वा किञ्चिदमोक्षयमाणे कुप्य- 226 2 मनिहार्यवर्जमेकदेशमुक्तद्रव्ये वा, ज्वालावेगोपरुद्धे वा, नावि

निमग्नायां मुषितायां स्वयमुपरूढो नोपनिधिमभ्याभवेत् ॥



  1. नास्ति.
  2. ट.
  3. मनुवाणाना.