पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
178
अघि. १२ अध्या
धर्मस्थीयम्

उपनिधिभोक्ता देशकालानुरूपं भोगवेतनं दद्यात् । द्वादशपणं च दण्डम् । उपभोगनिमित्तं नष्टं [१]वाऽभ्याभवेञ्चतुर्विंशतिपणश्च दण्डः । अन्यथा वा निष्पतने ।।
 प्रेत[२]व्यसनगत वा नोपनिधिमभ्याभवेत् ॥
 आधानविक्रयापव्ययनेषु चास्य चतुर्गुणपत्रबन्धो दण्डः । परिवर्तने निष्पातने वा मूल्यसमः ॥
 तेन आधिप्रणाशोपभोगविक्रयाधानापहारा व्याख्याताः ॥
 नाधिस्सोपकार. सीदेन्न चास्य मूल्यं वर्धेत । नि[३]रुपकार- स्सीदेन्मूल्यं चास्य वर्धेत[४]
 'उपस्थितस्याधिमप्रयच्छतो द्वादशपणो दण्डः ॥
 प्रयोजकासन्निधाने वा ग्रामवृद्धेषु स्थापायेत्वा निष्क्रय- माधि प्रतिपद्येत । निवृत्तवृद्धिको[५]वाऽऽधिस्तत्कालकृतमूल्यस्तैत्र- वावतिष्ठेत । अनाशविनाशकरणाधिष्ठितो वा धारणस[६]न्नि- धाने वा विनाशभयादुद्गता धर्मस्थानुज्ञातो विक्रीणीत । आधि- पालप्रत्ययो वा ।।
 स्थावरस्तु प्रयासभोग्यः फलभोग्यो वा प्रक्षेपवृद्धिमूल्य[७]-

शुद्धमाजीव[८] ममूल्यक्षयेणोपनयेत् ॥



  1. विनष्ट.
  2. प्रेतं.
  3. "निरु --र्धेत" इति पाठस्थाने “अन्यत्र निस- गति" इति पाठ ,
  4. याश्यवल्क्यः II, 62-64-अवास्यार्थशास्त्रस्य या- श्यवल्क्यस्मृतेश्चेतरस्मृत्यसाधारणमानुपूर्वीसाम्य परिदृश्यते एवमुत्तरत्राति सूचित्तस्थले- ध्ववगन्तव्यम्
  5. वृत्तिको
  6. रणकन,
  7. ल्य.
  8. वै. मू