पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४ प्रक.]
179
औपनिधिकम्

 अनिसृष्टोपभोक्ता मूल्यशुद्धमाजीवं बन्धं च दद्यात् । शेषमुपनिधिना व्याख्यातम् ॥
 एतेनादेशोऽन्वाधिश्च व्याख्यातौ ।।
 सार्थेनान्वाधिहस्तो वा ह्द्ज्दिष्टां भूमिमप्राप्तश्चोरैर्भग्नोत्सृष्टो- वा नान्वाधिमभ्याभवेत् । अन्तरे वा मृतस्य दायादोऽपि ना भ्याभवेत् । शेषमुपनिधिना व्याख्यातम् ॥
 याचितकमवक्रीतकं वा यथाविधं गृह्णीयुस्तथाविधमेव अर्पयेयुः॥
 भ्रेषोपनिपाताभ्यां देशकालोपरोधि दत्तं नष्टं विनष्टं वा- नाभ्याभवेयुः ।।
 शेषमुपनिधिना व्याख्यातम् ।।
 वैय्यावृत्यविक्रयस्तु-वैय्यावृत्यकरा यथादेशकालं विक्री- णानां[१] पण्यं यथाजातमूल्यमुदयं[२] च दधुः ॥
 शेषमुपनिधिना व्याख्यातम् ॥
 देशकालातिपातने वा परिहीणं सम्प्रदानकालिकेन अरधेपण मौल्य[३]मुदयं च दधुः ॥
 यथासम्भाषितं वा विक्रिणाना नोदयमधिगच्छेयुः मूल्य मेव दद्युः। अर्घपतने वा परिहीणं यथापरिहीण[४]मूल्यमूनं दद्युः।।

१णाना २ भयं ३मूल्य ४ण



  1. जाना.
  2. भयं
  3. मूल्य