पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
180
अधि १० अध्या
धर्मस्थीयम्

 सांव्यवहरिकेषु वा प्राययिकेष्वराजवाच्येषु भ्रेषोपनिपा ताभ्यां नष्ट विनष्टं वा मूल्यमपि न दद्युः । देशकालान्तरि तानां तु पण्यानां क्षयव्ययशुद्ध[१]मूल्य मुदयं च दद्युः । पण्यस- मवायानां च प्रत्यंशम् । शेषमुपनिपिना व्याख्यातम् ॥
 तेन[२] वैय्यावृत्यविक्रयो व्याख्यातः ।।
 निक्षेपश्चोपनिधिना ॥
 तमन्येन निक्षिप्तमन्यस्यार्पयतो हीयेत । निक्षेपापहारे पूर्वा- पदानं निक्षेप्तारश्च प्रमाणम् ॥
 अशुचयो हि कारव । नैषां कारणपूर्वो निक्षेपधर्म[३] । कार णहीनं निक्षेपमपव्ययमानं गूढभित्तिन्यस्तान् साक्षिणो निक्षे- प्ता रहस्यमणीपातेन प्रज्ञापयेत् ॥
 वनान्ते वा मध्यप्रवहणे वि[४]श्वासेन रहसि वृद्धो व्याधितो वैदेहकः कश्चित्कृतलक्षणं[५] द्रव्यमस्य हस्ते निक्षिप्यापगच्छेत् । तस्य प्रतिदेशेन पुत्रो भ्राता वाऽभिगम्य निक्षेपं याचेत । दाने शुद्धिरन्यथा निक्षेपं स्तेयदण्डं च दद्यात् ।।
 प्रव्रज्याभिमुखो वा श्रद्धेयः कश्चित्कृतलक्षणं द्रव्यमस्य हस्ते निक्षिध्य प्रतिष्ठेत । ततः कालान्तरागतो याचेत । दाने शुचिरन्यथा निक्षेपं स्तेयदण्ड च दद्यात् ।।
 कृतलक्षणेन वा द्रव्येण प्रत्यानयने तं[६]बालिशजातीयो वा रात्रौ राजदायिकाक्षणभीतः सारमस्य हस्ते निक्षिप्यापगच्छेत् ।

१शुद्धं ४ एतेन ३ करण ४ हणविश्वा ५ लक्षं ६ प्रत्यानयेदेनं



  1. शुद्धं.
  2. एतेन.
  3. करण.
  4. हणविश्वा.
  5. लक्षं.
  6. प्रत्यानयेदेने.