पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५ प्रक.
181
दासकल्पः

स एनं बन्धनागारगतो याचेत । दाने शुचिरन्यथा निक्षेपं स्तेयदण्डं च दद्यात् ॥
 अभिज्ञानेन चास्य गृहे जनमुभयं याचेत। अन्यतरादाने यथोक्तं पुरस्तात् ।।
 द्रव्यभोगानामागमं चास्यानुयुञ्जीत । तस्य चार्थस्य व्य वहारोपलिङ्गनमभियोक्तुश्वार्थसामर्थ्यम् ।।
 एतेन मिथस्समवायो व्याख्यातः ॥

तस्मान्साक्षिमदछन्नं कुर्यात्सम्यग्विभाषितम् ।
स्वे परे वा जने कार्यं देशकालाग्रवर्णतः ।।

इति धर्मस्थीये औपन्निधिक द्वादशोध्यायः

आदित एकोनसप्तति ॥


६५ प्रक, दासकल्पः,


 उदरदासवर्जमार्यप्राणममाप्तव्यवहारं शूद्रं विक्रयाधानं नय- त[१]स्वजनस्य द्वादशपणो दण्डः । वैश्यं द्विगुणः । क्षत्रिय त्रिगुणः । ब्राह्मणं चतुर्गुणः। परजनस्य पूर्वमध्यमोत्तमवधा दण्डाः केतृश्रोतृणां च ।।
म्लेच्छानामदोष प्रजा विक्रेतुमाधातुं वा ॥
न त्वेवार्यस्य दासभावः ।।

१तरयत



  1. तरवत.