पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५ प्रक]
183
कर्मकरकल्प

 आर्यमाणो ध्वजाह्रत कर्मकालानुरूपेण मूल्यार्थेन वा- विमुच्येत ॥
 गृहेजातदायागतलब्धक्रीतानामन्यतमं दासमूनाष्टवर्ष वि बन्धुमकामं नीचे कमणि विदेशे दासी वा सगर्भामप्रतिविहित- गर्भभर्मण्यां विक्रयाधानं नयतः पूर्वस्साहसदण्डः क्रेतृश्रो- तृणां च ॥
 दासमनुरूपेण निष्क्रयेणार्यमकुर्वतो द्वादशपणो दण्डः । संरोधश्चाकारणात् ॥
 दासद्रव्यस्य ज्ञातयो दायादाः । तेषां अभावे स्वामी ।।
 स्वामिनस्त[१]स्यां दास्यां जातं समातृकं अदास विद्यात् । गृह्या चेत् कुटुम्बार्थचिन्तनी माता भ्राता भगिनी चास्याः अदासास्स्यु.॥
 दासं दासी वा निष्क्रीय पुर्नीवक्रयाधानं नयतो द्वाद- शपणो दण्डः अन्यत्र स्वयंवादिभ्यः ॥
 इति दासकल्पः ॥
 कर्मकरस्य कर्मसम्बन्धमासन्ना विद्युः । यथासम्भषितं वेतनं लभेत। कर्मकालानुरूपमसम्भाषितवेतनम्[२]। कर्षकस्सस्या- नां, गोपालकस्साषां वैदेहकः पण्यानामात्मना व्यवहृतानां, दशभागमसम्माषितवेतनो लभेत॥

सम्भाषितवेतनस्तु यथासम्भाषितम् ॥



  1. स्वस्या
  2. तन..