पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
190
F३ अधि, १६ अध्या.
वर्मस्थीयम्

 नाष्टिकं च स्वकरण कृत्वा नष्टप्रत्याहृतं लभेत । स्वकर- णाभावे पञ्चबन्धो दण्ड तिच्च द्रव्यं राजधर्म्यं स्यात् ।
 नष्टापहृतमनिवेद्योत्कर्षतः स्वामिनः पूर्वः साहसदण्डः ।
 शुल्कस्थाने नष्टापहृतोत्पन्नस्ति[१]ष्ठेत् । त्रिपक्षादूर्ध्वमनभिसारं राजा हरेत्, स्वामी वा।
 [२]स्वकरणेन पञ्चपणिकं द्विपदरूपस्य निष्क्रयं दद्यात् । चतु- ष्पणिकमेकखुरस्यय; द्विपणिकं गोमहिषस्य , पादिकं क्षुद्रप- शूनां ; रत्नसारफल्गुकुप्यानां पञ्चकं शनं दद्यात् ।
 परचक्राटवीभृतं तु प्रत्यानीय राजा यथास्वं प्रयच्छेत् ।
 चोरहृतमविद्यमानं स्वद्रव्येभ्यः प्रयच्छेत् । । प्रत्यानेतुमशक्तो वा स्वयंग्राहेणाहृतं[३] प्रत्यानीय तनिष्क्रयं वा प्रयच्छेत् ।
 परविषयाद्वा विक्रमेणानीतं यथाप्रदिष्टं राज्ञा भुञ्जीतान्यत्रा र्यप्राणेभ्यो देवब्राह्मणतपस्विद्रव्येभ्यश्च ।
 इत्यस्वामिविक्रयः।
 स्वस्वामिसम्बन्धस्तु-भोगानुवृत्तिरुच्छिन्नदेशानां यथास्व-[४] द्रव्याणाम् ।
 यत् स्वं द्रव्यमन्यैर्भुज्यमानं दशवर्षाण्युपेक्षेत, हीयतास्य अ- न्यत्र बालवृद्धव्याधितव्यसानिमोषितदेशत्यागराज्याविभ्रमेभ्यः ।

 विशतिवर्षोपेक्षितमनु[५]वासितं नानुयुञ्जीत ।



  1. अति.
  2. याज्ञवल्य.२-१७४.
  3. स्वयग्राहिणाभृत.
  4. यथास्व.
  5. मन.