पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१ प्रक.
191
साहसम्

 ज्ञातयश्श्रोत्रिया पाषण्डा वा राज्ञामसन्निधौ परवास्तुषु वि- वसन्तो न भोगेन हरेयुः । उपनिधिमाधिं निधिं निक्षेपं स्त्रियं सीमानं राजश्रोत्रियद्रव्याणि च ।
 आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परमवाधमाना वसे- युः; अल्पां बाधां संहरन्[१] पूर्वागतो वा वासपर्यायं दद्यात् । अप्रदाता निरस्येत ।
 वानप्रस्थयातिब्रह्मचारिणामाचार्यशिष्यधर्मभ्रातृसमानती- र्थ्या रिक्थभाजः । क्रमेण विवादपदेषु चैषां यावन्त पणाः दण्डाः तावती रात्री क्षपणाभिषेकाग्निकार्यमहाकच्छवर्धनानि राज्ञश्चरेयुः । अहिरण्यसुवर्णाः पाषण्डास्साधवस्ते यथास्थमुप वासव्रतैराराधयेयुः अन्यत्र पारुष्यस्तेयसाहससङ्ग्रहणेभ्यः । तेषु यथोक्ता दण्डाः कार्या।
प्रवज्यासु यथा[२]चारानाजा दण्डेन वारयेत् ।
धर्मो ह्यधर्मोपहतः शास्तारं हन्त्युपेक्षितः ।

इति धर्मस्थीये अस्वामिविक्रयः स्वस्वामिसम्बन्धः

षोडशोऽध्याय आदितत्रिसप्ततिः


७१ प्रक. साहसम्.


साहसमन्वयवत्प्रसभकर्म ।

निरन्वये स्थेयमपन्यथने[३] च ।



  1. सहेरन्
  2. वृथा.
  3. व्ययने.