पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२ प्रक.]
193
वाक्पारुच्यम्

दण्डकर्मसु सर्वेषु रूपमष्टपण शतम् ।
शतात्परे तु व्याजीं च विद्यात्पञ्चपण शतम् ॥

प्रजानां दोषवाहुळयाद्राज्ञां वा भावदोषतः ।
रूपव्याज्यावधर्मिष्ठे धर्म्यानुप्रकृतिस्स्मृता ॥

इति धर्मस्थीये साहसं सप्तदशोऽध्याय.

आदितश्चतुस्सप्तति


७२ प्रक. वाक्पारुष्यम् .


 वाक्पारुष्यमुप[१]वादः कुत्सनमभिभर्त्सनमिति ।
 शरीरप्रकृतिश्रुतवृत्तिजनपदाना शरीरोपवादेन काणखञ्जा दिभिस्सत्ये त्रिपणो दण्डः । मिथ्योपवादे षट्पणो दण्डः ।
 शोभनाक्षिदन्त इति काणखञ्जादीनां स्तुतिनिन्दायां द्वाद शपणो दण्डः। कुष्ठोन्मादक्लैब्यादिभिः कुत्सायां च ।
 सत्यमिथ्यास्तुतिनिन्दसु द्वादशापणोत्तरा दण्डाः तुल्येषु । विशिष्टेषु द्विगुण । हीनेष्वर्धदण्डः । परस्त्रीषु द्विगुणः । प्रमादमदमोहादिभिरर्धदण्डाः ।
 कुष्ठोन्मादयोश्चिकित्सकाः सन्निकृष्टा पुमांसश्च प्रमाणम् ।

क्लीवभावे स्त्रियः मूत्रफेनं अप्सु विष्ठानिमज्जनं च ।



  1. भप.