एतत् पृष्ठम् परिष्कृतम् अस्ति
194
[३ अधि, १९ अध्या.
धर्मस्थीयम्
प्रकृत्यो[१]पवादे ब्राह्मणक्षत्रियवैश्यशूद्रान्तावसायिनामपरेण
पूर्वस्य त्रिपणोत्तरा दण्डाः । पूर्वेणापरस्य द्विपणाघराः । कुब्रा
ह्मणदिभिश्च कुत्सायाम् ।
तेन श्रुतोपवाद , वाग्जीवनानां कारुकुशीलवानां वृत्त्युप
वादः; मातणक[२] गान्धारादीनां च जनपदोपवादा व्याख्याता।
यः पर “एवं त्वां करिष्यामि " इति करणेनाभिभत्र्सये
दकरणे, यस्तस्य करणे दण्ड ततोडर्धदण्ड दद्यात ।
अशक्त कोपं मदं मोहं वाऽपदिशेत्, द्वादशपणं द[३]द्यात् ।
जातवैराशय शक्तश्चापकर्तुं यावज्जीविका[४]वस्थं दद्यात् ।
स्वदेशग्रामयोः पूर्व मध्यम जातिसङ्घयो ।
आक्रोशाद्देवचैत्यानां उत्तमं दण्डमर्हति ॥
इति धर्मस्थीये वाक्पारुण्य अष्टादशोऽध्यायः
आदित पञ्चसप्तति.
७३ प्रक, दण्डपारुष्यम्.
दण्डपारुष्यं स्पर्शनमवपूर्णं प्रहत्तमिति[५]।
नाभेरध. कायं हस्तपङ्कभस्मपांसुभिरिति स्पृशतस्त्रिपणो दण्ड.।