पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४ प्रक.]
197
मृतसमादयम्

 [१]दुखोत्पादनं द्रव्यमस्य वेश्मनेि प्रक्षिपतो द्वादशपणो 248 8 दण्डः । प्राणाबाधिकं पूर्वस्साहसदण्डः ।
 क्षुद्रपशूनां काष्ठादिभिर्दुःखोत्पादने पणो द्निपणो वा दण्डः। शोणितोत्पादने द्विगुणः।
 महापशूनामेतेष्ववस्था[२] नेषु द्विगुणो दण्डः, समुत्थानव्ययश्च ।
 पुरोवन[३]स्पतीनां पुष्पफलच्छायावतां प्ररोहच्छेदने षट्पणः । क्षुद्रशाखाच्छेदने द्वादशपणः पीनशाखाच्छेदने चतुर्विंशति- पणः। स्कन्धवधे पूर्वस्साहसदण्डः। समुच्छित्तौ मध्यमः ।
 पुष्पफलच्छायावद्गुल्मलतास्वर्धदण्ड । पुण्यस्थानतपोवन- श्मशानद्रुमेषु च ।

सीमवृक्षेषु चैत्येषु द्रुमेष्वालक्षितेषु च ।
त एव द्विगुणा दण्डाः कार्या राजवनेषु च ।।

इति धर्मस्थीय दण्डपारुष्यं एकोनविंशोऽध्यायः

आदितषट्सप्ततिः


७४-७५ प्रक. द्यूतसमाह्वयं प्रकीर्णकानि.


 द्यूताध्यक्षो ध्यूतमेकमुखं कारयेत् अन्यत्र दीव्यतो द्वादश 2497

पणो दण्डः गूढाजीविज्ञापनार्थम्[४]



  1. 4 याज्ञ. II , 229 - 32
  2. तेष्वेवस्था.
  3. पुरोपदनवन.
  4. 'धूतमेकमुख कार्य तस्करझानकारणात' इति याज्ञवल्क्य .