[१]कुलनीवीग्राहकस्यापव्ययने, विधवां छन्दवासिनी प्रस
ह्याधिचरत चण्डालस्यार्यां स्पृशतः, प्रत्यासन्नमापद्यनभिधाव-
तो, निष्कारणमभिधावन कुर्वतश्शाक्याजीवकादीन् वृषलप्रव्र
जितान् देवपितृकार्येषु भोजयतश्शत्यो दण्डः ।
[२]शापथवाक्यानुयोगमनिसृष्टं कुर्वतो, युक्तकर्मणि चायुक्त-
स्य, क्षुद्रपशुवृषाणां पुंस्त्वोपघातिनो, दास्या गर्भमौषधेन पान
यतश्च पूर्वस्साहसदण्डः।
[३]पितापुत्रयोर्दम्पत्योर्भ्रातृभगिन्योर्मातुलभागिनेययोश्शिष्या.
चार्ययोर्वा परस्परमपातेत त्यजतस्स्वार्थाभिप्रयातं ग्राममध्ये वा
त्यजतः पूर्वस्साहसदण्डः । कान्तारे मध्यम । तन्निमित्तं भ्रेष-
यत उत्तमः सहप्रस्थायिष्वन्येष्वर्धदण्डा ।
[४]पुरुषमबन्धनीयं बन्धतो बन्धयतो बन्धं वा मोक्षयतो बाल-
मप्राप्तव्यवहारं बन्धतो बन्धयतो वा सहस्रदण्डः ।
पुरुषापराधविशेषेण दण्डविशेष. कार्य ।
तीर्थकरस्तपस्वी व्याधित' क्षुत्पिपासाध्वक्लान्तस्तिरोजान
पदो दण्डखेदी निष्किञ्चनश्चानुग्राया ।