पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
200
[ अधि १ अध्या.
कण्टकशोधनम्

देवब्राह्मणतपस्विस्त्रीवालवृद्धव्याधितानामनाथानामनभिस रतां धर्मस्थाः कार्याणि कुर्युः । न च देशकालभोगच्छलेना- तिहरेयुः ।
पूज्या विद्याबुद्धिपौरुषाभिजनकर्मातिशयतश्च पुरुषा ।

एवं कार्याणि धर्मस्था' कुर्युरच्छलदर्शिन ।
समास्सर्वेषु भावेषु विश्वास्या लोकसम्प्रिया ॥

इति धर्मस्थीये चूतसमाह्वयं प्रकीर्णकानि विशोऽध्यायः

आदितस्सप्तसप्ततिरध्यायः

एतावता कौटिल्यस्यार्थशास्त्रस्य धर्मस्थीयं

तृतीयमाधिकरणं समाप्तम्



४ अधि. कण्टकशोधनम्.

७६ प्रक, कारुकरक्षणम्,


प्रदेष्टारस्त्रयस्यो वाऽ[१]मात्याः कण्टकशोधनं कुर्यु. ।
अर्थ्यप्रतीकारा कारुशासितारः सन्निक्षेप्तारः स्वचित्त[२]का-रवः श्रेणीप्रमाणा निक्षेपं गृह्णीयुः। विपत्तौ श्रेणी निक्षेपं भजेत । निर्दिष्टदेशकालकार्यं च कर्म कुर्युः। अनिर्दिष्टदेशकालका- र्यापदेश कालातिपातने पादहीनं वेतनं तद्विगुणश्च दण्डः ।



  1. नास्ति,
  2. 'स्ववित्त.