एतत् पृष्ठम् परिष्कृतम् अस्ति
202
[ अधि. १ अध्या
कण्टकशोधनम्
2552 श्रद्धेया रागविवादेषु वेतन कुशलाः कल्पयेयुः ॥
- परार्थ्यानां पणो वेतनं ; मध्यमानामर्धपणः प्रत्यवराणां
- पाद'; स्थूलकानां माषद्विमाषकम् | द्विगुणं रक्तकानाम् ।
- प्रथमनेजने चतुर्भागः क्षयः। द्वितीये पञ्चभागः । तेनो
- त्तरं व्याख्यातम् ।
- रजकैस्तन्तुवाया व्याख्याता !
- सुवर्णकाराणामशुचिहस्ताद्रूप्यं सुवर्णमानाख्याय सरूपं
- क्रीणतां द्वादशपणो दण्डः । विरूपं चतुर्विंशतिपणः ।
- चोरहस्तादष्टचत्वारिंशत्पणः । प्रच्छन्नविरूपं मूल्यहीनक्रयेषु
- स्तेयदण्डः । कृतभाण्डोपधौ च । सुवर्णान्माषकमपहरतो
- द्विशतो दण्ड । रुप्यधरणान्माषकमपहरतो द्वादशपणः ।
- तेनोत्तरं व्याख्यातम् । वर्णोत्कर्षमपसाराणां योगं वा सा-
- धयतः पञ्चशतो दण्डः । तयोरपचरणे रागस्यापहारं वि
- द्यात् । माषको वेतनं रूप्यधरणस्य । सुवर्णस्याष्टभागः ।
- शिक्षाविशेषेण द्विगुणा वेतनवृद्धिः । तेनोत्तरं व्याख्यातम् ।
2563: ताम्रवृतकंसवैकृन्तकारकूटकानां पञ्चकं शतं वेतनम् ।
- ताम्रपिण्डो दशभागः क्षयः । पलहीने हीनद्विगुणो दण्डः ।
- तेनोत्तरं व्याख्यातम् ।
- सीसत्रषुपिण्डो विशतिभाग. क्षयः । काकणी चास्य
- पलवेतनम् । तेनोत्तरं व्याख्यातम् ।