पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
७७ प्रक.
205
वैदेहूकरक्षणम्

 आढकस्वार्धकर्षहीनातिरिक्तमदोषः कर्षहीनातिरिक्ते त्रि- 259 2
पणो दण्ड । तेन कर्षोत्तरा दण्डवृद्धिर्व्याख्याता ।
 तुलामानविशेषाणामतोऽन्येषामनुमानं कुर्यात् ।
 तुलामानाभ्यामतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणा-
नस्य त एवं द्विगुणा दण्डा।
 गण्यपण्येष्वष्टभागं पण्यमूल्येष्वपहरतष्षण्णवतिर्दण्डः ।
 [१]काष्ठलोहमणिमयं रज्जुचर्ममृण्मयं सूत्रवल्करोममयं वा जा
त्यमित्यजात्यं विक्रयाधानं नयतो मूल्याष्टगुणो दण्डः ।
 [२]सारभाण्ड मित्यसारभाण्डं, तज्जातमित्यतज्जातं, राधायुक्त
मुपधियुक्तं समुत्परि[३] वर्तिमं वा विक्रयाधानं नयतो होनमूल्यं
चतुष्पञ्चाशन्पणो दण्डः । पणमूल्यं द्विगुणो द्विपणमूल्यं द्विश-
तः। तेनार्धवृद्धौ दण्डवृद्धिर्व्याख्याता ।
 [४]कारुशिल्पिनां कर्मगुणापकर्षमाजीवं विक्रयं क्रयोपघातं वा 269 10
सम्भूय समुत्थापयतां सहस्रं दण्ड ।
 वैदेहकानां वा सम्भूय पण्यमवरुन्धतामनर्धेण विक्रीणतां
क्रीणतां वा सहस्रं दण्डः।

 तुलामानान्तरमर्धवर्णान्तरं वा धरकस्य माप[५] कस्य वा पण-



  1. 1 याज्ञथ II, 294.
  2. याज्ञय. II, 250-251.
  3. ३ समुद्रपरि.
  4. याश्य 248-9.
  5. माय.