पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७९ प्रक.]
211
गृढाजीविनारक्षा

च शौचाशौचं विधु ---यं चात्र गूढजीविनं शङ्केत,[१] तं सात्रि 2655
सवर्णेना[२] पसंर्पयेत् । धर्मस्थं प्रदेष्टारं वा विश्वासोपगतं सत्री
ब्रूयात्-" असौ मे बन्धुरभियुक्तः; तस्यायमनर्थः प्रतिक्रियतां
अयं चार्थः प्रतिगृह्यताम्" इति । स चेत्तथा कुर्यात् , “ उप-
दाग्राहकः” इति प्रवास्येत ।
 तेन प्रदेष्टारो व्याख्याताः !
 ग्रामकूटमध्यक्ष वा सत्री ब्रूयात् “असौ जाल्मः प्रभूत-
द्रव्यस्तस्यायमनर्थः तेनैनमाहारयत्व" इति । स चेत्तथा
कुर्यात् “उत्कोचकः” इति प्रवास्येत ।
 कृतकाभियुक्तो वा कूटसाक्षिणोऽभिज्ञाताऽनर्थ वैपुल्येन आ
रभेत । ते चेत्तथा कुर्युः, “कूटसाक्षिणः" इति प्रवा.
स्थेरन् ।
 तेन कूटपण[३] कारका व्याख्याताः।
 यं वा मन्त्रयोगमूलकर्मभिश्श्माशानिकैर्वा संवनन[४] कारकं
मन्येत, तं सत्री ब्रूयात् "अमुष्य भायाँ स्नुषां दुहितरं वा
कामये । सा मां प्रतिकामयतां अयं चार्थः प्रतिगृह्यताम् "
इति । स चेत्तथा कुर्यात् “संवनन[५] कारकः" इति
प्रवास्येत ।
 तेन कृत्याभिचारशीलौ व्याख्यातौ। 2664

 यं वा रसस्य वक्तारं क्रेतारं विक्रेतारं भैषज्याहारव्यव-


  1. 1 विशङ्केत.
  2. सत्रिसर्पणेनाप.
  3. ३ कूटश्रावण.
  4. तवदन.
  5. कर्तार,