पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
८२ प्रक]
217
आशुमृतकपरीक्षा

लूननिवृष्टभिन्नपाटितशरीरवस्त्रं जातकिण[१]संरब्धहस्तपादं पांसु 2724 पूर्णकेशनख विलूनभुग्नकेशनख[२]वा सम्यक् स्नातानुलिप्तं तैलप्रमृ- ष्टगात्र सद्योधौतहस्तपादं वा पांसुपिच्छिलेषु तुल्यपादपदनि- क्षेपं प्रवेशनिष्कासन[३]योर्वा तुल्यमाल्यमद्यगन्धवस्त्रच्छेदविलेपन स्वेदं परीक्षेत ॥

 पौरं[४] पारदारिकं वा विद्यात् ॥

सगोपस्थानिको बाह्यं प्रदेष्टा चोरमार्गणम् |
कुर्यान्नागरिकश्चान्तर्दुर्गे निर्दिष्ट हेतुभिः ॥

इति कण्टकशोधने शङ्कारूपकर्माभिग्रह. षष्ठोऽध्यायः आदितस्त्रयशीतिः


८२ प्रक. आशुमृतकपराक्षा.


 तैलाभ्यक्तमाशुमृतकं परिक्षेत--
 निष्कीर्णमूत्रपुरीषं वातपूर्णकोष्ठत्वक्कं शूनपादपाणिमुन्मीलि- ताक्षं सव्यञ्जनकण्ठं पीडेननिरुद्धोच्छासहतं विद्यात् ॥  तयेव सङ्कुचितबाहुसक्थिमुद्बन्धहतं विद्यात् ॥
 शूनपाणिपादोदरमपगताक्षमुद्वृत्तनाभिमवरोपित्तं विद्यात् ।।
 निस्तब्धगुदाक्षं सन्दष्टजिह्वमाध्मातोदरमुदकहतं विद्यात् ।।
 शोणितानुसिक्तं भन्नभिन्नगात्रं काष्ठै रश्मिभिर्वा हतं 274 1 विद्यात् ॥



  1. किरण,
  2. नख.
  3. निष्कसन,
  4. चार,