पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
220
६४ अधि. 6 अध्या.
कण्टकशोधनम्

'८३ प्रक. वाक्यकर्मानुयोगः,'


276.3  [१]मुषिनसन्निधौ बाहानामभ्यन्तराणां च साक्षिण[२]माभशस्तस्य

देशजातिगोत्रनामकर्मसारसहायनिवासाननुयुञ्जीता तश्विापदेशै
प्रतिसमानयेत् । ततः पूर्वस्याह्नः प्रचारं रात्री निवासं च
" आग्रहणादिति" अनुयुञ्जीत । तस्यावसारप्रतिसन्धाने
शुद्धस्स्यात् । अन्यथा कर्मप्राप्तः ।[३]
 त्रिरात्रादूर्ध्वमग्राह्यः शङ्कितकः, पृच्छभावादन्यत्रोपकरण-
दर्शनात् ॥
 "अचोरश्चोर[४]" इत्यभिव्याहरतश्वोरसमो दण्डः ; चोर
प्रच्छादयतश्च ।।
 चोरेणाभिशस्तो वैरद्वेषाभ्यामपदिष्टकः शुद्धस्स्यात् । शुद्धं
परिवासयतः पूर्वस्साहसदण्डः ॥
 शङ्कानिष्पन्नमुपकरणमन्त्रिसहायरूपवैय्यावृत्यकरानिष्पाद-
येत् । कर्मणश्च प्रदेशद्रव्यादा[५]नांशविभागः प्रतिसमानयेत् ।
एतेषां कारणानां अनभिसन्धाने विप्रलपन्तमचोरं विद्यात ।
दृश्यते ह्यचोरोऽपि चोरमार्गे यदृच्छया; सन्निपाते चोरवे-
षशस्त्रभाण्डसामान्येन गृह्यमाणो दृष्टः चोरभाण्डस्योपवासेन

217 8 वा यथा हि माण्डव्यः कर्मक्लेशमयादचोरः “चोरोऽस्मि"

इति ब्रुवाणः । तस्मात्समाप्तकरणं नियमेयत् ।।

  1. यायः II, 271-272.
  2. णा.
  3. तस्याय.
  4. 4 अचोर चोर
  5. द्रव्यदा,