पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
226
[४ अधि, १० अध्या.
कण्टकशोधनम्

283 3  गृहीतायामार्यायां विद्यात् । दास्यां पूर्वस्साहसदण्डः ॥

 चारकमभित्वा, निष्पातयतो मध्यमः; भित्वा वधः, क.
न्धनागारात्सर्वस्वं वधश्च ॥
 एवमर्थचरान् पूर्व राजा दण्डेन शोधयेत् ।
 शोधयेयुश्च शुद्धास्ते पौरजानपदान् दमैः[१]

इति कण्टकशोधने सर्वाधिकरणरक्षणं नवमोऽध्याय .
आदितष्षडशीतिः.



८५ प्रक. एकाङ्गवधनिष्क्रयः,



 तीर्थ[२] घातग्रन्थिभेदेऽर्थचराणां[३] प्रथमेऽपराधे संदशच्छेदन
चतुष्पञ्चाशत्पणो वा दण्डः। द्वितीये-छेदनं पणस्य श-
त्यो वा दण्ड । तृतीये-दक्षिणहस्तवधश्चतुश्शतो वा दण्डः।
चतुर्थे-~-यथाकामी वधः ।।
 पञ्चविंशतिपणावरेषु कुक्कुटनकुलमार्जारश्वसूकरस्तेयेषु हिं.
सायां वा चतुष्पञ्चाशत्पणो दण्डः । नासाग्रच्छेदनं वा । च
ण्डालारण्यचराणामर्धदण्डाः ॥

284°3  पाशजालकूटापपात्रेषु[४] बन्धानां[५] मृगपशुपक्षिव्याळमत्स्या-

नामादाने तच्च तावञ्च दण्डः ॥

  1. 1 जने .
  2. याश्य. II, 271
  3. भेदोधकराणा
  4. 4 टावपातेषु.
  5. 5 बद्धाना