पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७ प्रक.
231
कन्याप्रकर्म

 प्राप्तफलां प्रकुर्वतो मध्यममदेशिनीवधो द्विशतो वा दण्डः, 2892
पितुश्चापहीन दद्यात् ।।
 न च प्राकाम्यमकामायां लभेत ॥
 सकामायां चतुष्पञ्चाशत्पणो दण्डः ; स्त्रियास्त्वर्धदण्डः ॥
 परशुल्कोपधायां[१] हस्तवधश्चतुश्शतो वा दण्डः शुल्कदानंच।।
 सप्तार्तवप्रजाता पराणामूर्ध्वमलभमानां प्रकृत्य प्राकामी स्यात्
न च पितुरपहीनं दद्यात् । ऋतुप्रतिरोधिभिः स्वाम्या
दपक्रामति ॥
- त्रिवर्षप्रजातार्तवायास्तुल्यो गन्तुमदोषः । तत परमतु-
ल्योऽप्यनलङ्कृतायाः[२] । पितृद्रव्यादाने स्तेयं भजेत ॥
 परमुद्दिश्यान्यस्य विन्दतो द्विशतो दण्डः ॥
 न च प्राकाम्यमकामायां लभेत ।।
 कन्यामन्यां दर्शयित्वाऽन्यां प्रयच्छतश्शत्यो दण्डस्तुल्यायां;
हीनायां द्विगुणः॥
 प्रकर्मण्यकु[३]मार्याश्चतुष्पञ्चाशत्पणो दण्डः, शुल्कव्ययकर्मणि[४]
च प्रतिदद्यात् । अवस्थाय तज्जातं पश्चात्कृता द्विगुणं द- 2903
धात् । अन्यशोणितोपधाने द्विशतो दण्डः । मिथ्यभिशं

सिनश्च । पुंसः शुल्कव्ययकर्मणि[५] च जीयेत ॥


  1. 1 परशुल्कावरुद्धाया
  2. ३ याश्य II, 287.
  3. प्रकर्मकु
  4. कर्मणी
  5. कर्मणी