पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
८८ प्रक]
233
अतिचान्दण्ड

 [१]केशाकेशिकं सङ्गहणं उपलिङ्गनाद्वा शरीरोपभोगानां त- 291 7
ज्जातेभ्यः स्त्रीवचनाद्वा!
 परचक्राटवीहृतामोघमव्यूढामरण्येषु दुर्भिक्षे वा त्यक्तां
प्रेतभावोत्सृष्टां वा परस्त्रियं निस्तारयित्वा यथासंभाषितं
समुपभुञ्जीत। जातिविशिष्टा[२]मकामामपत्यवतीं निष्क्रयेण दद्यात्।।

 चोरहस्तान्नदीवेगाद्दुर्भिक्षादेशविभ्रमात् ।
 निस्तारयित्वा कान्तार[३] नष्टां त्यक्तां मृतेति वा ॥
 भुञ्जीत स्त्रियमन्येषां यथासंभाषितं नरः ।
 न तु राजप्रतापेन प्रमुक्तां स्वजनेन वा ॥
 न चोत्तमा न चाकामां पूर्वापत्यवतीं न च ।
 ईदृशीं च न रूपेण[४] निष्क्रयेणोप[५] वाहयेत् ॥

इति कण्टकशोधने चतुर्थेऽधिकरणे कन्याप्रकर्म द्वादशोऽध्यायः
आदित एकोननवति .



८८ प्रक. अतिचारदण्डः,



 ब्राह्मणमपेयमभक्ष्यं वा सङ्ग्रासयत उत्तमो दण्डः । क्षत्रियं, 292 4
मध्यमः । वैश्य पूर्वस्साहसदण्डः । शूद्र, चतुष्पञ्चाशपणो

दण्डः ।


  1. 1 याश्य. II, 283.
  2. विशिष्टा
  3. कान्तारान्न,
  4. 4 बानुरूपेण. येणाप,
  5. याइय. II, 296.