पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८८ प्रक
285
अतिवारदण्ड

हस्तिना वध इति पादप्रक्षाळनम् । उदासीनवधे यातुरुत्त 294 1
मो दण्डः ।।  शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानयमोक्षयतस्स्वामिनः पूर्वस्सा-
ढसदण्डः । प्रतिष्टस्य द्विगुणः ॥
 [१]शृङ्गिदंष्ट्रिभ्यामन्योन्यं घातयत्तस्तच्च तावच्च दण्डः । देव-
पशुमृषभमुक्षाणं गोकुमारीं वा वाहयतः पञ्चशतो दण्डः।
प्रवासयत उत्तमः ॥
 लोमदोहवाहनव्रजनोपकारिणां[२] क्षुद्रपशूनामादाने तच्च ता.
वञ्च दण्डः; प्रवासने च अन्यत्र देवपितृकार्येभ्यः ॥
 [३]छिन्ननस्यमभग्नयुगं तिर्यक्प्रतिमुखागतं प्रसासरद्वा च-
क्रयुक्तं यातपशुमनुष्यसम्बाधे वा हिंसायामदण्ड्यः, अन्य-
था यथोक्तं मानुषप्राणिहिंसायां दण्डमभ्याभवेत् । अमा
नुषप्राणिवधे प्राणिदानं च !
 बाले यातरि, यानस्थः स्वामी दण्ड्यः अस्वामिनि या-
नस्थः प्राप्तव्यवहारो वा याता । बालाधिष्ठितमपुरुषं वा
यानं राजा हरेत् ।।
 कृत्याभिचाराभ्यां यत्परमापादयेत्, तदापादयितव्यः। कामं 295 2
भार्यायामनिच्छन्त्यां कन्यायां वा दारार्थिना[४] भर्तरि भार्या-

या वा संवननकरणं ; अन्यथा हिंसायां मध्यमस्साहसदण्डः


  1. 1 याश्य. II, 300.
  2. प्रजननोपकारिणा
  3. ३ यान्न, II, 299.
  4. 4 ना,