पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
९१ प्रक]
247
भृत्यभरणीयम

९१ प्रक. मृत्यभरणीयम्.


 दुर्गजनपदशक्त्या भूत्यकर्म समुदायवादेन[१] स्थापयेत् । कार्यसाधनसहेन वा भृत्यलाभेन शरीरमवेक्षेत । न धर्मार्थों पी- डयेत् ।

 ऋत्विगाचार्यमन्त्रिपुरोहितसेनापतियुवराजराजमातृराजम- हिष्योऽष्टचत्वारिंशत्साहस्राः । एतावता भरणेनानास्व[२] धत्वम्- कोपकं चैषां भवति ।

 दौवारिकान्तर्वशिकप्रशास्तृसमाहर्तृसन्निधातारश्चतुर्विशति- साहस्राः । एतावता कर्मण्या भवन्ति ।

 कुमारकुमारमातृनायका पारव्यावहारिककाार्मान्तिकमन्त्रिप- रिषद्राष्ट्रान्तपालाश्च द्वादशसाहस्रा। स्वामिपरिबन्धबलसहाया ह्येतावता भवन्ति ।

 श्रेणीमुख्या हस्त्यश्वरथमुख्याः प्रदेष्टारश्च अष्टसाहस्रा । स्ववर्गानुकर्षिणो ह्येतावता भवन्ति ।

 पत्त्यश्वरथहस्त्यध्यक्षा. द्रव्यहस्तिवनपाला. चतुस्साहस्राः । रथिकानीकचिकित्सकाश्वदमकवर्धकयो योनिपोषकाश्च द्वि- साहस्राः।

 कार्तान्तिकनैमित्तिकमौहूर्तिकपौराणिकसूतमागधाः पुरोहितपुरुषास्सर्वाध्यक्षाश्च साहस्रा. ।



  1. समुदाय वा (पा। देन.
  2. नास्पच.