पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
९१ प्रक.]
249
अत्यमरणीयम्

अल्पकोशः कुप्पपशुक्षेत्राणि दद्यात ; अल्पं च हिरण्यम् । शून्यं वा निवेशयितुमभ्युत्थितो हिरण्यमेव दद्यात् । न ग्रामं ग्रामसजातव्यवहारस्थापनार्थम्। एतेन भृतानां च[१] विद्याकर्मभ्यां भक्तवेतनविशेषं च कुर्यात् । षष्ठिवेतनस्याढकं कृत्वा हिरण्या- नुरूपं भक्तं कुर्यात् ।

 पत्त्यश्वरथद्विपाः सूर्योदये हिस्सन्धिदिवसवर्ज शिल्पयोग्याः कुर्युः । तेषु राजा नित्ययुक्तस्स्यादभीक्ष्णं चैषां शिल्पदर्शनं कुर्यात् । कृतनरेन्द्राङ्कं शस्त्रावरणमायुधागारं प्रवेशयेत् । अश- स्त्राश्चरेयुरन्यत्र मुद्रानुज्ञातात् । नष्टं विनष्ट वा द्विगुण दद्यात् । विध्वस्तगणनां च कुर्यात्। सार्थिकाना शस्त्रावरणमन्तपाला गृ- ह्णीयुः समुद्रमवचारयेयुर्वा । यात्रामभ्युत्थितो वा सेनामुद्योज येत् । ततो वैदेहकव्यञ्जनास्सर्वपण्यान्यायुधीयेभ्यो यात्राकाले द्विगुणप्रत्यादेयानि दध्युः । एवं राजपण्यविक्रयो[२] वेतनमत्या- दानं च भवति ।

 एवमवेक्षितायव्यय. कोशदण्डव्यसनं नावाप्नोति ।
 इति भक्तवेतनविकल्पः।

सत्रिणश्चायुधीयानां वेश्याः कारुकुशीलवाः ॥

दण्डवृद्धाश्च जानीयुश्शौचाशौचमतन्द्रिताः ॥

इति योगवृत्ते पञ्चमेऽधिकरणे भृत्यभरणीय तृतीयाध्याय

आदितस्त्रिणवति




  1. भूतानामभृताना च
  2. पण्ययोगविक्रयो.