एतत् पृष्ठम् परिष्कृतम् अस्ति
१२ प्रक]
251
अनुजीविवृत्तम्
अहीनकालं राजार्थ स्वार्थ प्रियहितैस्सह ।
परार्थदेशकाले च ब्रूयाद्धार्मार्थसंहितम् ।।
पृष्टः प्रियहितं ब्रूयान्न ब्रूयादहितं प्रियम् ।
अप्रियं वा हितं ब्रूयाछृण्वतोऽनुमतो मिथः ॥
तूष्णीं वा प्रतिवाक्ये स्यात् द्वेष्यादींश्च न वर्णयेत् ।
अप्रिया अपि दक्षारस्युः तद्भावाद्ये[१] बहिष्कृताः ।।
अनर्थ्याश्च प्रिया दृष्ट्वा[२] चित्ताज्ञानानुवर्तिनः ।
अलिहारस्य ष्वभिहष्वभिहारसोरहासांश्च वर्जयेत्[३] ॥
परात्सङ्कामयेद्धोरं न च घोरं परे वदेत् ।
तितिक्षेतात्मनश्चैव क्षमावान् पृथिवीसमः ।।
आत्मारक्षा हि सततं पूर्व कार्या विजानता ।
अग्नाविव हि संप्रोक्ता वृत्ती राजोपजीविनां ॥
ऐकदेशं दहेदग्निः शरीरं वा परं गतः ।
सपुत्रदारं राजा तु घातयेद्वैधयेत वा ॥
इति यागवृत्ते अनुजीविवृत्तं चतुर्थोऽध्यायः
आदितश्चतुर्णवति .