पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
९३ प्रक]
253
समयाचारिकम

ष्टनिर्भेदः स्वेदश्वासस्मितानामस्थानोत्पत्तिः परिमन्त्रणं, अकस्माजन[१], वर्धनं अन्यत्य, भूमिगात्रविलेपन[२], अन्यस्योपतोदन, विद्यावर्णदेशकुत्सा, समदोषनिन्दा, प्रतिदोषनिन्दा, प्रतिलोमस्तवः, सुकृतानपेक्षणं[३] , दुष्कृतानुकीर्तन, प्रविष्टा[४] वधा- न. अतित्याग , मिथ्याभिभाषणं, राजदर्शिनां च तद्वृत्तान्यत्व, वृत्तिविकारं चावेक्षताप्यमानुषाणाम् ॥

 "अयमुच्चैः सिञ्चतीति" कात्यायनः ।।
 "प्रवव्राज कौञ्चोऽपसव्यम्" इति कणिङ्को भारद्वाजः ॥ "तृणमिति” दीर्घश्वारायणः ॥
 "शीता शाटीति" घोटमुख. ॥
 "हस्ती प्रत्यौक्षीदिति" किञ्जल्कः ॥
 "रथाश्वं प्राशंसीत्[५]” इति पिशुनः ।।
 "प्रतिवरणे शूनम्[६]' इति पिशुनपुत्रः ।।
 अर्थमानाप[७]क्षेपे च परित्यागः । स्वामिशीलमात्मनश्च किल्बिषमुपलभ्य वा प्रतिकुर्वीत मित्रमुपकृष्टं वाऽस्य गच्छेत् ।।

 तत्रस्थो दोषनिर्घातं मित्रैर्भर्तरि चाचरेत् ।
 ततो भर्तरि जीवे वा मृते वा पुनराव्रजेत् ॥

इति योगवृत्ते समयावारिकं पञ्चमोऽध्यायः

आदित. पञ्चनवत्तिः




  1. द्वजिन
  2. विलेखन
  3. तानवेक्षणं
  4. पृष्टा
  5. प्राशसेत
  6. प्रतिरवणे शु..