पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४, ९५ प्रक]
265
राज्यप्रतिसन्धानमेकैश्वर्य च

 यदि वा कश्चिन्मुख्य सामन्तादीनामन्यतम कोपं भजेत, तं "एहि राजानं त्वा करिष्यामि" इत्यावाहयित्वा घातयेत् । आपत्प्रतीकारेण वा साधयेत् ।

 युवराजे वा क्रमेण राज्यभारमारोप्य राजव्यसनं ख्यापयेत्।।

 परभूमौ राजव्यसने मित्रेणामित्रव्यञ्जनेन शत्रोस्सन्धिमव- स्थाप्यापगच्छेत् । सामन्तादीनामन्यतमं वाऽस्य दुर्गे स्था पयित्वाऽपगच्छेत् । कुमारमभिषिच्य वा प्रतिव्यूहेत । परेणा- भियुक्तो वा यथोक्तमापत्प्रतीकारं कुर्यात् ॥

 एवमेकैश्वर्यममास.[१] कारयेदिति-कोटि[२] ल्यः॥

 "नैवम्” इति भारद्वाज.---" प्रम्रियमाणे वा राजन्यमात्यः कुल्यकुमारमुख्यान् परस्पर मुख्येपु वा विक्रामयेत्[३] । विक्रान्तं प्रकृतिकोपेन घातयेत् । कुल्यकुमार[४] मुख्यानुपांशु दण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् । राज्यका- रणादि पिता पुत्रान् पुत्राश्च पितरमभिद्रुह्यन्ति, किमङ्ग पुनरमात्यप्रकृतिर्ह्येकप्रग्रहो राज्यस्य । तत्स्वयमुपस्थितं ना- वमन्येत । स्वयमारूढा हि स्त्री त्यज्यमानाऽभिशपतीति लो- कपवादः ॥

कालश्च सकृदभ्येति य नरं कालकाङ्क्षिणम् ।

दुर्लभस्स पुनस्तस्य कालः कर्म चिकीर्षतः ।।



  1. मात्य.
  2. विक्रमयेत्
  3. प्रकृतिकुमार.