पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७ प्रक]
259
शमध्यायामिकम्

 अराजवीज[१] लुब्धः क्षुद्रपरिषत्को विरक्तप्रकृतिरन्यायवृत्तिरयुक्तो व्यसनी निरुत्साहो दैवप्रमाणो यस्किञ्चनकार्यगतिरनुबन्धः क्लीबो नित्यापकारी चेत्यमित्रसम्पत् । एवंभूतो हि शत्रुस्सुखः समुच्छेत्तुं भवति ।

 अरिवर्जा प्रकृतयः सप्तैतारस्वगुणोदया।
 ऊक्ताः प्रत्यङ्गभूतास्ताः प्रकृता राजसम्पदः॥

 सम्पादयत्यसम्पन्नाः प्रकृतीरात्मवान्नृपः ।
 विवृद्धाश्चानुरक्ताश्च प्रकृतीर्हन्त्यनात्मवान् ॥

 ततस्स दुष्टप्रकृतिश्चातुरन्तोऽप्यनात्मवान् ।
 हन्यते वा प्रकृतिभिर्याति वा द्विषतां वशम् ।।

 श्रात्मवांस्त्वल्पदेशोऽपि युक्तः प्रकृतिसम्पदा ।
 नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते ॥

इति मण्डलयोनौ षष्ठेऽधिकरणे प्रकृतिसम्पद

प्रथमोऽध्यायः आदितस्सप्तनवतिः


१७ प्रक. शमव्यायामिकम्.


 शमव्यायामौ योगक्षेमयोर्योनिः ।।
 कर्मारम्भाणां योगाराधनो व्यायामः । कर्मफलोपभोगानां क्षेमाराधनश्शमः ।।

 शमध्यायामयोर्योनिष्षाड्गुण्यम् ।। 3224



  1. अराजबीजी.