पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८-९५ प्रक]
265
पागुण्यसमुद्दश , क्ष्यस्थानवृद्धिनिश्चयश्र

 यदि वा पश्येत् ---" सन्धौ स्थितो महाफलै स्वकर्माभिः परकर्माण्युपहनिष्यामि ; महाफलानि वा स्वकर्माण्युपभोक्ष्ये परकर्माणि वा सन्धिविश्वासेन वा योगोपनिषत्प्रणिधिभिः परकर्माण्युपहनिष्यामि ; सुखं वा सानुग्रहपरिहारसौकर्यं फललामभूयस्त्वेन स्वकर्मणा परकर्मयोगावहजनमास्त्रावयिष्यामि। बलिनाऽतिमात्रेण वा संहितः पर स्वकर्मोपघातं प्राप्स्यति । येन वा विगृहीतो मया सन्धत्ते, तेन अस्य विग्रहं दीर्घ करिष्यामि ; मया वा संहितस्य मद्वेषिणो जनपदं पीडयिष्यति ; परोपहतो वाऽस्य जनपदो मामागमिष्यति । ततः कर्मसु वृद्धिं प्राप्स्यामि ; विपन्नकर्मारम्भो वा विषमस्थः पर. कर्मसु न मे विक्रमेत; परतः प्रत्तकर्मारम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि, शत्रुप्रतिवद्धं वा शत्रुणा सन्धिं कृत्वा मण्डलं भेत्स्यामि ; भिन्नमवाप्यामि दण्डानुग्रहेण वा शत्रुमुपगृह्य मण्डललिप्सायां विद्वेषं प्राह- यिष्यामि ; विद्विष्टं तेनैव घातयिष्यामि” इति सन्धिना वृद्धिमातिष्ठेत् ।।

 यदि वा पश्येत्---" आयुधीयप्रायश्श्रेणीप्रायो वा मे जनपदश्शैलवननदीदुर्गैकद्वारारक्षो वा शक्ष्यत्ति पराभियोग प्र. तिहन्तुमिति; विषयान्ते दुर्गमविषह्यमपाकृतो[१] वा शक्ष्यामि

परकर्माण्युपहन्तुमिति ; व्यसनपीडोपहतोत्साहो वा परस्सं-



  1. माश्रितो