पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
270
[७ अधि. ३ अध्या
पाड्गुण्यम्

3843 मरव्यसनमप्रतिकार्य चेत् पश्येत्, हीवऽप्यभियायात् ।।
 अप्रतिकार्यासन्नव्यसनो वा ज्यायानपि संश्रयेत ।।

 सन्धिनैकतो विग्रहेणैकतश्चेत् कार्यसिद्धिं पश्येत्, ज्या- यानपि द्वैधीभूतस्तिष्ठेदिति । एवं समस्य षाइगुण्योपयोगः । तत्र तु प्रतिविशेष.---

 प्रवृत्तचक्रेणाक्रान्तो राज्ञा बलबताऽबल' ।
 सन्धिनोपनमेत्तूर्णं कोशदण्डात्मभूमिभिः ॥

 स्वयं सङ्ख्यातदण्डेन दण्डस्य विभवेन वा ।
 उपस्थातव्यमित्येष सन्धिरात्मामिषो[१] मतः ॥

 सेनापतिकुमाराभ्यां उपस्थातव्यमित्ययम् ।
 पुरुषान्तरसन्धिस्स्यान्मात्मनेत्यात्मरक्षणः ॥

 एकेनान्यत्र यातव्यं स्वयं दण्डेन वेत्ययम् ।
 अदृष्टपुरुषस्सन्धिदण्डमुख्यात्मरक्षणः ।।

 मुख्यस्त्रीवन्धनं कुर्यात्पूर्वयो. पश्चिमे त्वरिम् ।
 साधयेद्गूढमित्येते दण्डोपनतसन्धयः ।।

 कोशदानेन शेषाणां प्रकृतीनां विमोक्षणम् ।।
 परिक्रयो भवेत्सन्धिस्स एव च यथासुखम् ।।

 स्कन्धोपनेयो बहुधा ज्ञेयस्सन्धिरुपग्रहः ।



  1. "स्वसैन्येन तुसन्धानमात्मामिष इति स्मृतः"