मारमाक्रन्देन पार्ष्णिग्राहं वा विगृह्य यातुम्" इति, तदा विगृह्य यायात् ।
यदा वा फलमेकहार्यमल्पकालं पश्येत्तदा पार्ष्णिग्रहासारा- भ्यां विगृह्य यायात् । विपर्यये सन्धाय यायात् ।
यदा वा पश्येत्-" न शक्यमेकेन यातुमवश्य च यातव्यम्" इति, तदा समहीनज्यायोभिस्सामवायिकैस्सम्भूय यायात एकत्र निदिष्टेनांशेनानेकत्रानिर्दिष्टेनांशेन । तेषामसमवाये दण्डमन्यतस्मिन्नि[१] विष्टांशेन याचेत। सम्भूयभिगमेनन वा निार्दिश्येत[२] । ध्रुवे लाभे निर्दिष्टेनांशेनाध्रुवे[३] लाभांशेन ।
अंशो दण्डप्तमः पूर्वः प्रयाससम उत्तम |
विलोपो वा यथालाभं प्रक्षेपसम एव वा ॥
इति षाड्गुण्ये विगृह्यासनं सन्धायासनं विगृह्य यानं
सन्धाय यानं संभूय प्रयाण चतुर्थोऽध्याय .
आदितो द्विशत.
१०८-१० प्रक, यातव्यामित्रयोरभिग्रहचिन्ता,
क्षयलोभविरागहेतवः, प्रकृतीनां
सामवायिकविपरिमर्शश्च.
339 5 तुल्यसामन्तव्यसने यातव्यममित्रं वा? इत्यामित्रमाभियायात्।