पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
११३ प्रक.]
298
धामाविकास्सन्धिाचक्रमाः


 प्रकाशयुद्धं निर्दिष्टो [१] देशे काले च विभ्रमः[२] । 3489
 विभीषणमवस्कन्दः प्रमादव्यसनार्दनम् ।।
 एकत्र त्यागघातौ च कूटयुद्धस्य मातृका ।
 योगभूमौष[३] जापार्थं तूष्णींयुद्धस्य लक्षणम् ।।

इति पाडूगुग्ये सप्तमेऽधिकरणे संहितप्रयाणिकं परिपाणितापरिपणितापमृताश्च षष्ठोध्यायः. आदितश्चतुश्शत.


११३ प्रक. द्वैधीभाविकास्सन्धिविक्रमाः.


 विजिगीषुर्द्वितीयां प्रकृतिमेवमुपगृह्णीयात्--सामन्तं सामन्तेन
सम्भूय यायात् ॥

 यदि वा मन्येत-"पार्ष्णि येन ग्रहिष्यति, यातव्यं[४]
नाभिसरिष्यति; बलवद्वैगुण्यं मे भविष्यत्ति, वीवधासारौ
मे प्रवर्तयिष्यति,[५] बह्वाभाधे मेवनि[६] कण्टकान् मदीयष्यति
दुर्गाटव्यपसारेषु दण्डेन चरिष्यति; यातव्यमविषह्ये[७] दोषे
सन्धौ वा स्थापयिष्यति; लब्धलाभांशो वा शत्रूनन्यान्मे
विश्वासयिष्यतीति"
 द्वैधीभूतो वा कोशेन दण्ड दण्डेन कोशं सामन्तानाम-
न्यतमाल्लिप्सेत । तेषां ज्यायसोधिकेनांशेन समात्समेन
हीनाद्धनिनिति समसन्धिः । विपर्यये विषमसन्धिः ! तयो- 849 3
विशेषलाभादतिसन्धिः॥


  1. निर्दिष्टे
  2. विभ्रमः
  3. योगभूमौष
  4. यातव्यं
  5. न ग्रहीष्वति पाणिग्राहं वारयिष्यति यातन्यं परत्य वारयिष्यति
  6. मेवनि
  7. यातव्यमविषये