पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३११

एतत् पृष्ठम् परिष्कृतम् अस्ति
१११ ग्रक]
285
द्वैधीमाथिकास्सन्धिविक्रमा

 जातव्यसनप्रकृतिरन्ध्रमेनकावरुद्धमन्यतोलभमानो वा सम. 3511
स्समवलाद्धिनेन लाभेन पणेत । पणितस्तस्यापकारसमर्थों
विक्रमेत; अन्यथा संदस्यात् ।।

 एवंभूतो वा समस्सामन्तायत्तकार्यः कर्तव्यबलो वा वलस-
माद्विशिष्टेन लाभेन पणेत । पणितः कल्याणबुद्धिमनुगृह्णीयात्
अन्यथा विक्रमेत ॥

 जातव्यसनप्रकृतिरन्ध्रमभिहन्तुकामः स्वारब्धमेकान्तसिद्घिं
वाऽस्य कर्मोपहन्तुकामो मूले यात्रायां वा प्रहर्तुकामो यात-
व्यात् भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो
याचेत । भूयो वा याचितः स्वबलरक्षार्थ दुर्वर्षमन्यदुर्ग-
मासारमटवीं वा परदण्डेन मर्दितुकामः प्रकृष्टेऽध्वनि काले
वा परदण्डं क्षयव्ययाभ्यां योक्तुकामः परदण्डेन वा विवृ-
द्धस्तमवोच्छेत्तुकामः परदण्डमादातुकामो वा भूयो दद्यात् ।।

 ज्यायांसं वा हीनं वा यातव्यापदेशेन हस्ते कर्तुकामः
परमुच्छिद्य वा तमेवोच्छेत्तुकामः त्यागं वा कृत्वा प्रत्यादातु-
कामो बलसमाद्विशिष्टेन लाभेन पणेत । पणितस्तस्या-
पकारसमर्थो विक्रमेत; अन्यथा संदध्यात् । यातव्यसंहितो
वा तिष्ठेत् । दूष्यामित्राटवीदण्डं वाऽस्यै दद्यात् ॥
जातव्यसनप्रकृतिरन्ध्रो वा ज्यायान् हीनं बलसमेन ला- 3523
भेन पणेत। पणितस्तस्यापकारसमर्थो विक्रमेत; अन्यथा
संदध्यात् ।।