पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
290
अधि ९ अध्या,
पाड्गुण्यम्

3579  गुरुसमुत्थं महन्मित्रं लघुसमुत्थमल्पं वेति ?.-.-"गुरुसमुत्थं
महन्मित्रं प्रनापकरं भवति । यदा चोत्तिष्ठते, तदा कार्य
साधयति" इत्याचार्याः ।

 नेति कौटि[१]ल्यः-लघुसमुत्थमल्पं श्रेयः; लधुसमुत्थाल्पं
मित्र ंकार्यकालं नातिपातयति दौर्बल्याच्च यथेष्टभोग्यं भ.
वति नेतरत्प्रकृष्टभौमम् ।

 विक्षिप्तसैन्यमवश्यसैन्यं वेति ? “विक्षिप्तं सैन्यं शक्यं प्र-
तिसंहर्तुं वश्यत्वात् " इत्याचार्या ।
नेति कौटि[२]‌ल्यः-अवश्यसैन्यं श्रेयः अवश्यं हि शक्यं
सामादिभिर्वश्यं कर्तुं ; नेतरत्कार्यव्यासक्तं प्रतिसंहर्तुम् ।
 पुरुषभोग हिरण्यभोगं वा मित्रमिति? "पुरुषभोग[३] मित्रं
श्रेयः पुरुषभागं मित्रं प्रतापकरं भवति । यदा चोति-
ष्ठते तदा कार्य साधयति" इत्याचार्याः ।

 नेति कौटि[४] ल्यः--हिरण्यभोगं मित्रं श्रेयः ; नित्यो[५] हिर-
ण्येन योगः कदाचिद्दण्डेन दण्डश्च हिरण्येनान्ये[६] च कामाः
प्राप्यन्त इति ।

 हिरण्यभोगं भूमिभोगं वा मित्रमिति ?---" हिरण्यभोगं
मतिमत्त्वात् सर्वव्ययप्रतीकारकरम्" इत्याचार्याः ।
358 2  नेति कौटि[७]ल्यः-"मित्रहिरण्ये हि भूमिलाभाद्भवतः"
इत्युक्तं पुरस्तात् तस्माभूमिभोगं मित्रं श्रेय इति ।


  1. कौटि
  2. कौटि
  3. पुरुषभोग
  4. कौटि
  5. नित्यो हि
  6. न्येन
  7. कौटि