पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
११६ प्रक
293
भूमिसन्धि

११३ प्रक भूमिसन्धिः


 "त्वं चाहं च भूमि लभावहे " इति भूमिसन्धिः।
 तयोर्यः प्रत्युपस्थितार्थ[१] सम्पन्नां भूमिमवाप्नोति सोऽतिसं.
धत्ते । तुल्ये सम्पन्नालाभे यो बलवन्तमाक्रम्य भूमिमवाप्नोति
सोऽतिमसंधत्ते भूमिलाभं शत्रुकर्शन प्रतापं च हि प्राप्नोति ।
दुर्वलाभूमिलाभे सत्यं मौन्दर्य[२] भवति। दुर्बल एव च भूमिलाभः
तत्सामन्तश्च मित्रममित्रभाव गच्छति ।

 तुल्ये बलीयस्त्वे यस्स्थितशत्रुमुत्पाट्य भूमिमवाप्नोति सोति-
संधत्ते ; दुर्गावाप्तिर्हि स्वभूमिरक्षणं मित्राटवीप्रतिषेधं च करोति ।

 चलाामित्रात् भूमिलाभे शक्यसामन्ततो विशेषः; दुर्बलसा-
मन्ता हि क्षिप्राप्यायनयोगक्षेमा भवन्ति। विपरीता बलवत्सा-
मन्ता कोशदण्डावच्छेदेन नीच[३] भूमिर्भवति ।।

 सम्पन्ना नित्यामित्रा मन्दगुणा वा भूमिरानित्यामित्रेति -
"सम्पन्ना नित्यामित्रा श्रेयसी भूमिः, सम्पन्ना हि कोश
दण्डौ सम्पादयति । तौ चामित्रप्रतिघातकौ" इत्याचार्याः ।

 नेति कौटिल्यः[४]-नित्यामित्रालाभेभूयांश्छत्रुलाभो भवति। नि-
त्यश्च शत्रुरुपकृते चापकृते च शत्रुरेव भवति अनित्यस्तु शत्रुरुपका.
रादनपकारद्वा शाम्यति। यत्या हि भूमेर्बहुदुर्गाश्चोरगणैर्म्लेंच्छा- 361 1
टवीभिर्वा नित्याविरहिताः प्रत्यन्तास्सा नित्यामित्रा विपर्यये
त्वनित्यामित्रेति ।


  1. तार्थः
  2. सौकर्य
  3. बच्छेदिनीच