पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३२

पुटमेतत् सुपुष्टितम्

 कारुकरक्षणम् । वैदेहकरक्षणम् । उपनिपातप्रतीकारः । गूढाजीविनां रक्षा । सिद्धव्यञ्जनैर्माणवप्रकाशनम् । शङ्कारूपकर्माभिग्रहः ! आशुमृतकपरीक्षा । वाक्यकर्मानुयोगः । सर्वाधिकरणरक्षणम् । एकाङ्गवधनिष्क्रयः । शुद्धश्चित्रश्च दण्डकल्पः । कन्याप्रकर्म । अतिचारदण्डः ॥ इति कण्टकशोधनं चतुर्थमधिकरणम् ॥


 दाण्डकर्मिकम् । कोशाभिसंहरणम् । भृत्यभरणीयम् । अनुजीविवृत्तम् । समया[१]चारिकम् । राज्यप्रतिसन्धानम् । एकैश्वर्यम् ॥ इति योगवृत्तं पञ्चममधिकरणम् ॥


 प्रकृतिसम्पदः । शमव्यायामिकम् ॥ इति मण्डलयोनिष्षष्ठमधिकरण्म् ॥


 षाड्गुण्यसमुद्देशः । क्षयस्थानवृद्धिनिश्चयः । संश्रयवृत्तिः ।

समहीनज्यायसां गुणाभिनिवेशः । हीनसन्धयः । विगृह्यासनम् । सन्धायासनम् । विगृह्य यानम् । सन्धाय यानम् । सम्भूय प्रयाणम् । यातव्यामित्रयोरभिग्रहचिन्ता क्षयलोभविरागहेतवः । प्रकृतीनां सामवायित[२]विपरिमर्शः । संहितप्रयाणिकम् । परिपणितापरिपणितापसृताश्च सन्धयः । द्वैधीभाविकास्सन्धिविक्रमाः । यातव्यवृत्तिः । अनुग्राह्यमित्रविशेषाः ।



  1. सामया.
  2. यिक.