पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
294
अधि. १. अध्या.
धाड्गुण्य

 अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिरिति ?----
अल्पा प्रत्यासन्ना श्रेयसी सुखा हि प्राप्तं पालयितुमभिसा-
रयितुं च भवति विपरीता व्यवहिता।

 व्यवहिताव्यवहितयोरपि दण्डधारणाऽऽत्मधारणा वा भूमि-
रिति ?-आत्मधारणा श्रेयसी; सा हि स्वसमुत्थाभ्यां
कोशदण्डाभ्यां धार्यते। विपरीता दण्डधारणा दण्डस्थानामीति।

 बालिशात्प्राज्ञाद्वा भूमिलाभ इति-बालिशाद्भूमिलाभः
श्रेयान् । सुप्राप्यानुपाल्या हि भवत्यपत्यादेया च । विपरीता
प्राज्ञादनुरक्तेति ।

 पीडनीयोच्छेदनीययोरुच्छेदनीयाद्भूमिलाभः श्रेयान् । उ.
च्छेदनीयो ह्यनपाश्रयो दुर्बलापाश्रयो वाऽभियुक्तः कोशदण्डा-
वादायापसर्तुकामः प्रकृतिभिस्त्यज्यते । न पीडनीयो दुर्गमित्र
प्रतिस्तब्ध इति ।

 दुर्गप्रतिस्तब्धयारेपि स्थलनदीदुर्गीयाभ्यां स्थलदुर्गीयात् भू-
मिलाभः श्रेयान् । स्थलीयं[१] हि सुरोधावमर्दा स्कन्दमनिस्रावी
शत्रु च नदीदुर्गं तु द्विगुणक्लेशकरमुदकं च पातव्यं वृत्तिकरं
चामित्रस्य ।

 नदीपर्वतदुर्गीयाभ्यां नदीदुर्गीयाद्भूमिलाभः श्रेयान्। नदी-
दुर्ग हि हस्तिस्तम्भसङ्क्रमसेतुबन्धनौभिस्साध्यमनित्यगाम्भीर्य-
मपस्राव्युदकं च; पार्वतं तु- स्वारक्षं दुरवरोधि कृच्छा-


  1. स्थालेये