पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
११६ प्रक
295
अनवसितत्तान्ध

रोहणं भग्ने चैकस्मिन् न सर्ववधः; शिलापक्षप्रमोक्षश्च महा- 362 1
पकारिणाम् ।

निम्नस्थलयोधिभ्यो निन्मयोधिभ्यो भूलाभः' श्रेयान् । नि-
म्नयोधिनो ह्युपरुद्धदेशकालाः; स्थलयोधिनस्तु सर्वदेशकाल-
योधिनः ।

खनकाकाशयोधिभ्यः खनकेभ्यो भूमिलामः[१] श्रेयान् ! ख.
नका हि खातेन शस्त्रेण चोभयथा युध्यन्ते । शस्त्रेणैवाकाश-
योधिनः।

एवंविधभ्यः पृथिवीं लभमानोऽर्थशास्त्रवित् ।
संहितेभ्यः परेभ्यश्च विशेषमधिगच्छति ॥

इति षाड्गुण्ये मित्राहरण्यभूमिकर्मसन्धौ

भूमिसन्धिः दशमोध्यायः

आदितोऽष्टशत


११६ प्रक, अनवसितसन्धिः,


 'त्वं चाहं च शून्यं निवेशयावहे' इत्यनवासितसान्धः । त.
योर्यः प्रत्युपस्थितार्थों यथोक्तगुणां भूमि निवेशयति सोऽ-
तिसंधत्ते ।
 तत्रापि स्थलमौदकं वेति ?. ..महतः स्थलादल्पमौदक श्रे- 363 1
यस्सातत्यादवस्थितत्वाञ्च फलानाम् । स्थलयोरपि प्रभूतपूर्वा-


  1. भमिलाभ