पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
298
[ अधि. ११ अध्या.
पाइगुण्यम्

 यत्किञ्चिदारभमाणो हि विजिगीषो कदाचिच्छिद्रमासा- दयेत्" इत्याचार्याः ।  " यथा छिद्र तथा विनाशमप्यासादयेत्” इति कौटिल्यः । तेषामलाभे यथा पार्ष्णिग्राहोपग्रहे वक्ष्यामस्तथा भूमिमव-
स्थापयेदित्यभिहितसन्धिः ।

 गुणवतीमादेयां वा भूमिं वलवता क्रयेण याचितस्सन्धिमव
स्थाप्य दद्यादित्यनिभृतसन्धिः ।।

 समेन वा याचितः कारणमवेक्ष्य दद्यात-"प्रत्यादेयो मे
भूमिर्वश्या वाऽनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमिवि
क्रयाद्वा मित्राहिरण्यलाभः कार्यसामर्थ्यकरो मे भविष्यति इति।
तेन हीनः क्रेता व्याख्यातः।

एवं मित्रं हिरण्यं च सजनामजनां च गाम् ।
लभमानोऽतिसंधत्ते शास्त्रावित्सामवायिकान् ॥

इति षाड्गुण्ये मित्रहिरण्यभूमिकर्मसन्धौ अनवसितसन्धिः

एकादशोऽध्यायः

आदितो नवशतः


१९६-प्रक, कर्मसन्धिः ,


 "त्वं चाहं च दुर्ग कारयावहे ' इति कर्मसन्धिः ।
तयोर्यो दैवकृतमविषह्यमल्पव्ययारम्भं दुर्ग कारयति सोऽति
संधत्ते।