पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
310
[७ अघि १६ अध्या.
पाड्गुण्यम्

 3773 "अन्यतरसिद्धिर्हि त्यक्तात्मनो भवति" इत्याचार्याः।

 

नेति कौटिल्या-“सन्धेयतामात्मनः परस्य चोपलभ्य संद-
धीत । विपर्यये विक्रयेण सन्धिमयसार वा लिप्सेत । सन्धे-
यस्य वा दूतं प्रेषयेत् । तेन वा प्रेषितमर्थमानाभ्यां सत्कृत्य
बूयात् । इदं राज्ञः पण्यागारामिदं देवीकुमाराणां, देवीकुमार-
चचनादिदं राज्यमहं च दर्पणः” इति ।

 

लब्धसंश्रयः समयाचारित वद्भर्तरि वर्तेत । दुर्गादीनि च
कर्माण्यावाहविवाहपुत्राभिषेकाश्च पण्यहस्तिग्रहणसत्रयात्राविहा
रगमनानि चानुज्ञातः कुर्वीत । स्वभूम्यवस्थितप्रकृतिसन्धिमुप-
घातमपसृतेषु वा सर्वमनुज्ञात' कुर्वीत । दुष्टपौरजानपदो वा
न्यायवृत्तिमन्यां भूमिं याचेत । दूष्यवदुपांशुदण्डने वा प्रति-
कुर्वीत । उचितां वा मित्रााद्भूमिं दीयमानां न प्रतिगृह्णीयात् ।
मन्त्रिपुरोहितसेनापतियुवराजानामन्यतममदृश्यमाने भर्तरि ए.
श्येत् । यथाशक्ति चोपकुर्यात् । दैवतस्वस्तिवाचनेषु तत्परा
आशिषो वाचयेत् । सर्वत्रात्मनिसर्गं गुणं ब्रूयात् ।

 

संयुक्तबलवत्सेवी विरुद्धश्शङ्किताादीभिः ।
वर्तेत दण्डोपनतो भर्तर्येवमवस्थित ।।

इति षाड्गुण्ये बलवता विगृह्योपरोधहंतवः

दण्डोपनतवृत्तं पञ्चदशोऽध्यायः

आदितस्त्रयोदशशतः