पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७ प्रक.
328
प्रकृतिव्यसनवर्ग

कर्मसिद्धयः स्वतः परतश्च योगक्षेमसाधनं व्यसनप्रतीकारः 392 4 शून्यनिवेशोपचयौ दण्डकरानुग्रहश्चेति ॥

 “जनपददुर्गव्यसनयोर्दुर्गव्यसनम् " इति पाराशराः । “दुर्गे हि कोशदण्डोत्पत्तिरापदि स्थानं च जनपदस्य, शक्तिमत्त- राश्च पौरजानपदेभ्यो नित्याश्चापदि सहाया राज्ञो जानप- दास्त्वमित्रसाधारणा ” इति ।।

 नेति कौटिल्यः---जनपदमूला दुर्गकोशदण्डाः सेतु वार्ता रम्भाः शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च; जानपदेषु पर्वता. न्तर्द्विपाश्च दुर्गा नाध्युष्यन्ते जनपदाभावात् । कर्षकप्राये तु दुर्गव्यसनमायुधीयप्राये तु जनपदे जनपदव्यसनामिति ॥

 "दुर्गकोशव्यसनयोः कोशव्यसनम्" इति पिशुनः- "कोश- मूलो हि दुर्गसंस्कारो दुर्गरक्षणंच; दुर्गः कोशादुपजाप्यः परेषां; जनपदमित्रामित्रनिग्रहो देशान्तरितानामुत्साहनं दण्डबलव्यव- हारः । कोश मादाय च व्यसने शक्यमपयातु न दुर्गम्" इति ।।

 नेति कौटिल्य:---दुर्गार्पण कोशो दण्डस्तूष्णीयुद्धं स्व- पक्षनिग्रहो दण्डबलव्यवहार. आसारप्रतिग्रहः परचक्राटवीमति. षेधश्च ; दुर्गाभावे च कोशः परेषां दृश्यते हि दुर्गवतामनु- च्छित्तिरिति ।।

 "कोशदण्डव्यसनयोर्दण्डव्यसनम्" इति कौणपदन्तः “द- 393 4 ण्डमूलो हि मित्रामित्रनिग्रहः परदण्डोत्साहनं स्वदण्डप्रतिग्र-


1,ट. दण्डसेतु. आजारप्रतिग्रहः । परचक्राटवी प्रतिषेधश्च । कोश.