पुटमेतत् सुपुष्टितम्
6
[१ अधि. १ अध्या.
विनयाधिकारिकम्
- सुखग्रहणविज्ञेयं तत्त्वार्थपदनिश्चितम् ।
- कौटिल्येन कृतं शास्त्रं विमुक्तग्रन्थविस्तरम् ॥
- सुखग्रहणविज्ञेयं तत्त्वार्थपदनिश्चितम् ।
इति कौटिलीयेऽर्थशास्त्रे विनयाधिकारिके प्रथमाधिकरणे
राजवृत्ति: प्रथमोऽध्यायः.
१. प्रक. विद्यासमुद्देशः.
आन्वीक्ष[१]की त्रयी वार्ता दण्डनीतिश्चेति विद्याः ।
त्रयी वार्ता दण्डनीतिश्चेति मानवाः--त्रयीविशेषो ह्यान्वीक्षकीति ॥
वार्ता दण्डनीतिश्चेति बार्हस्पत्याः--संवरणमात्रं हि त्रयी लोकयात्राविद इति ।
दण्डनीतिरेका विद्येत्यौशनसाः--तस्यां हि सर्वविद्यारम्भाः प्रतिबन्धा[२](द्धा) इति ॥
चतस्र एव विद्या इति कौटिल्यः । ताभिर्धर्मार्थौ यद्विद्यात्तद्विद्यानां विद्यात्वम् ।
साङ्ख्यं योगो लोकायतं चेत्यान्वीक्ष[३]की ।
धर्माधर्मौ त्रय्याम् । अर्थानर्थौ वार्तायाम् । नयान[४]यौ दण्डनीत्यां बलाबले चैतासां हेतुभिरन्वीक्ष[५]माणा लोकस्यो