पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
824
[८ अधि. १ अध्या.
व्यसनाधिकारिकम्

हश्च । दण्डाभावे च ध्रुवं कोशविनाशः । कोशाभावे च शक्य: 893 5 कुप्येन भूम्या परभूमिस्वयग्रहेण वा दण्डः परं गच्छति । स्वामिन वा हन्ति । सर्वाभियोगकरश्च । कोशो धर्मकाम हेतुः। देशकाल कार्यवशेन तु कोशदण्डयारन्यतरः प्रमाणीभव- ति। लम्भ पालनो हि दण्डः कोशस्य । कोशः कोशदण्डस्य च भवति सर्वद्रव्यप्रयोजकत्वात् कोशव्यसनं गरीयः" इति ॥

  "दण्डमित्रव्यसनयामित्रव्यसनम्" इति वातव्याधिः-"मि- त्रमभृतं व्यवहितं च कर्म करोति ; पार्ष्णिग्राहमासारममित्र- माटविकं च प्रतिकरोति; कोशदण्डभूमिश्चोपकरोति व्यस- नावस्थायोगमिति ॥

  नेति कौटिल्यः- दण्डवतो मित्रं मित्रभावे, तिष्ठत्यमित्रो वा मित्रभावे, दण्डभित्रयोस्तु साधारणे कार्ये सारतः स्वयुद्धदे- शकाललाभाद्विशेषः । शीघ्राभियाने त्वमित्राटविकाभ्यन्तरको पे च न मित्रं विद्यते । व्यसनयौंगपद्धे परवृद्धौ च मित्र- मर्थयुक्तौ तिष्ठति । प्रकृतिव्यसनसंप्रधारणमुक्तमिति ।

प्रकृत्यवयवानां तु व्यसनस्य विशेषतः।
बहुभावोऽनुरागो वा सारो वा कार्यसाधकः ॥
3945 द्वयोस्तु व्यसने तुल्ये विशेषो गुणतः क्षयात् ।
शेषप्रकृतिसाद्गुण्यं यदि स्यान्नाभिधेयकम् ॥


1 ध्रुवः, परभूमि स्वयग्रहेण वा दण्ड पिण्डयितु, दण्डवता च कोश , स्वामि- नश्चासन्नवृत्तित्वादमास्यसधर्मा दण्डः इति । नेति कौटिल्य,कोशमूलो हिंदण्ड कोशाभा- वे दण्डः पर गच्छति. लब्ध, कोशस्य दण्डस्व. द. 'यिकम,