पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९ प्रक
327
पुरुषव्यसनबर्ग

द्वयोर्द्वयोर्व्यसनयोः प्रकृतीनां बलाबलम् ।
पारम्पर्यक्रमणोक्तं याने स्थाने च कारणम् ॥

इति व्यसनाधिकारिके

राजराज्ययोर्व्यसनचिन्ता द्वितीयोऽध्याय .

आदितोऽष्टादशशत


१२९ प्रक. पुरुषव्यसनवर्गः


 अविद्याविनयः पुरुषव्यसनहेतुः । अविनीतो हि व्यस- नदोषान् न पश्यति ॥

 तानुपदेक्ष्यामः--"कोपजस्त्रिवर्गः; कामजश्वतुर्वर्गः तयोः कोपो गरीयान्; सर्वत्र हि कोपश्चरति ; प्रायशश्च कोप- वशा राजानः प्रकृतिकोपैर्हताः श्रूयन्ते । कामवशाः क्षयव्य सननिमित्तमति व्याधिभिः" इति ॥

 नेति भारद्वाजः--" सत्पुरुषाचारः कोपो वैरायतनमव- ज्ञातवधो भीतमनुष्यता च; नित्यश्च कोपसम्बन्धः पापप्र. तिषेधार्थः कामास्माद्धिलाभः सान्त्वं त्यागशीलता सम्प्रिय- भावश्च; नित्यश्च कामेन सम्बन्धः कृतकर्मणः फलोपभो. गार्थ इति ॥

 नेति कौटिल्य --द्वेष्यता शत्रुवेदनं दुःखसङ्गतश्च कोपः, परिभवो द्रव्यनाश पाटचरध्युतकारलुब्धकगायकवादकैश्वानथ्यै-


मार. कापेन, ट 4 वेतन अनर्थस्य संयोग दुःखासङ्गश्च कोप ,