पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
328
अधि. ३ अध्या.
व्यसनाधिकारकम्

स्संयोगः काम। तयो' परिभवात् द्वेष्यता गरीयसी परिभूतस्सैः परैश्चापगृह्यते । द्वेष्यस्समुच्छिद्यत इति । द्रव्यनाशाच्छत्रुवेदनं गरीय ; द्रव्यनाशः कोशावाधकः, शत्रुवेदनं प्राणबाधकमिति। अनर्थ्य संयोगाद्दुःखसंयोगो गरीयान् । अनर्थ्य संयोगो मुहूर्त प्रतीकारो दीर्घक्लेशकरो दुःखानामासङ्ग इति। तस्मात्कोपो गरीयान् ।।

 वाक्पारुष्यमर्थदूषणं दण्डपारुष्यामति । “वाक्पारुष्यार्थ- दूषणयोर्वाक्पारुष्यं गरीयः" इति विशालाक्ष:--" परुषयुक्तो हि तेजस्वी तेजसा प्रत्यारोहति । दुरुक्तशल्यं हृदि निखातं तेजस्संदीपनमिन्द्रियोपतापि च " इति ।।

 नेति कौटिल्यः---अर्थपूजा वाक्छल्यमपहन्ति ; वृत्तिवि लोपस्त्वर्थदूषणं दानमादान विनाशः परित्यागो वा अर्थस्थे- त्यर्थदूषणम् ॥

  " अर्थदूषणदण्डपारुष्ययोरर्थदूषणं गरीयः" इति पाराश रा:--" अर्थमूलौ धर्मकामौ । अर्थप्रतिबन्धश्च लोको वर्तते ॥ तस्योपघातो गरीयान्” इति ॥

 नेति कौटिल्यः --सुमहताऽप्यर्थेन न कश्चन शरीरविना- शमिच्छेत् । दण्डपारुष्याच्च तमेव दोषमन्येभ्यः प्राप्नोति ॥  इति कोपजस्त्रिवर्गः ।।

 कामजस्तु----मृगया ध्युतं स्त्रिय पानमिति चतुर्वर्गः ॥


1 तस्तै अनर्थ 3,52. अदानमादान