401 10 नेतिकौटिल्यः-स्वचक्रपीडनं प्रकृतिपुरुषमुख्योपग्रहाविधा- ताभ्यां शक्यते वारयितुमेकदेशं वा पीडयति ; सर्वदेशपीडनं तु परचक्रं विलोपघातदाहविध्वंसनोपवाहनैः पीडयतीति ।
प्रकृतिराजविवादयोः प्रकृतिविवादः प्रकृतीनां भेदकः परा- भियोगानावहति । राजविवादस्तु प्रकृतीनां द्विगुणभक्तवेतनप- रिहारकरो भवतीत्याचार्याः !
नेति कौटिल्यः-शक्यः प्रकृतिविवादः प्रकृतिमुख्योपग्रहेण कलहस्थानापनयनेन वा वारयितुं विवदमानास्तु प्रकृतयः परस्परसङ्घर्षणोषकुर्वन्ति । राजविवादस्तु पीडनोच्छेदनाय प्रकृतीनां द्विगुणव्यायामसाध्य इति ॥
"देशराजाविहारयोः देशाविहारस्त्रैकाल्येन कर्मफलोपघातं करोति ; राजाविहारस्तु कारुशिल्पिकुशीलववाग्जीवनवैदेहको- पकारं करोति" इत्याचार्या ।
नेति कौटिल्यः- देशविहारः कर्मश्रमवधार्थमल्पं भक्षयति ; भक्षयित्वा च भूयः कर्मसु योगं गच्छति; राजविहारस्तु स्वयं- वल्लभैश्च स्वयंग्राहप्रणयपण्यागारकार्योपग्रहैः पडियतीति।
4026 "सुभगाकुमारयोः कुमारस्स्वयं वल्लभैश्च स्वयंग्राह प्रणयप- ण्यागारकार्योपग्रहैः पीडयति । सुभगा विलासोपभोगेन " इत्याचार्याः ।
1,2,37.