पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
334
[ अधि. ४ अध्या.
व्यसनाधिकारिकम्

4037 अभिजातोपरुद्धा भूमि' पशुव्रजो'परुद्धा वेति- आभिजातोपरुद्धा भूमिः महाफलाऽप्यायुधीयोपकारिणी न क्षमा मोक्षयितुं व्यसनाबाधभयात् । पशुव्रजोपरुद्धा तु कृषि- योग्या क्षमा मोक्षयेितुं ; विवीतं हि क्षेत्रेणबाध्यते" इत्याचार्या

 नेति कौटिल्य:-अभिजातोपरुद्धा भूमिरत्यन्तमहोपकाराऽपि क्षमा मोक्षयितुं ; व्यसनावाधभयात् । पशुव्रजो परुद्धा तु कोश- वाहनोपकारिणी न क्षमा मोक्षयितुमन्यत्र सस्यवापोपरोधादिति

 "प्रतिरोधचाटविकयो' प्रतिरोधकाः रात्रिस्त्रीपरा शरीरा- क्रमिणो नित्याश्शतसहस्रापहारिण' । प्रधानकोपकाव्य वहि ता. प्रत्यन्तारण्यचराश्चाटविका प्रकाशादृश्याश्चरन्त्येकदेशघात काश्च" इत्याचार्याः।

 नेति कौटिल्यः --प्रतिरोधकाः प्रमत्तस्यापहरन्ति ; कल्पाः कुण्ठाः सुखात् ज्ञातुं गृहीतुं च ; स्वदेशस्थाः प्रभूता विक्रा- न्ताश्चाटविकाः प्रकाशयोधिनोऽपहर्तारो हन्तारश्च देशानां राजसधर्माण इति ।

 मृगहस्तिवनयोः मृगाः प्रभूताः प्रभूतमांसचोपकारिणो मन्दग्रासावक्लेशिनस्सीनयम्याश्च । विपरीता हस्तिनो गृह्यमाणाः दृष्टाश्च देशविनाशायति ।

4045 स्वपरस्थानीयोपकारयो स्वस्थानीयोपकारोधान्यपशुहिरण्य- कुप्योपकारो जानपदानामापाद्यात्मधारणः । विपरीतः परस्था- नीयोपकार इति पीडनानि ।


118.4 शुप्रजो 7 ट. गाविसकारा, कोपकाच व्य. अल्पा:.