पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३-१३४ प्रक]
337
बलव्यसनवर्गः, मित्रव्यसनवर्गश्च



उपरुद्धपरिक्षिप्तयोरुपरुद्धमन्यतो निष्कम्योपरोद्धारं प्रतियु- 407 3 ध्येत, न परिक्षिप्त सर्वतः प्रतिरुद्धम् ।

 छिन्नधान्यपुरुषवीवधयोः छिन्नधान्यमन्यतो धान्यमानीय जङ्गमस्थावराहारं वा युध्येत, न छिन्न पुरुषवीवधमनभिसारम् ।

 स्वविक्षिप्तीमत्रविक्षिप्तयोः स्वविक्षिप्तं स्वभूमौ विक्षिप्तं सैन्यमा- पदि शक्यमपस्रावयितुं, न मित्रीवक्षिप्तं विप्रकृष्टदेशकालत्वात् ।

 दूष्ययुक्तदुष्टपार्ष्णिग्राहयोर्दूष्ययुक्तमालपुरुषाधिष्ठितमसंहतं युध्येत, न दुष्टपार्ष्णिग्राहं पृष्ठाभिघातत्रस्तम् ।

 शून्यमूलास्वामिसहतयोः शून्यमूलं कृतपौरजानपदारक्षं सर्व-  सन्दोहेन युध्येत, नास्वामिसंहतं राजसेनापतिहीनम् ।  भिन्नकूटान्धयोर्भिन्नकूटमन्याधिष्ठितं युध्येत, नान्धमदेशिक- मिति ॥

दोपशुद्धिर्वलावापः सत्रस्थानातिसन्धानम् ।
सन्धिश्चोत्तरपक्षस्य बलव्यसनसाधनम् ॥
रक्षेत्स्वदण्डं व्यसने शत्रुभ्यो नित्यमुत्थितः ।
पहरेद्दण्डरन्ध्रेषु शत्रूणां निसमुत्थितः ॥
यतोनिमित्तं व्यसनं प्रकृतीनामवाप्नुयात्
प्रागेव प्रतिकुर्वीत तन्निमित्तपतन्द्रितः॥
आभियातं स्वयं मित्रं सम्भूयान्यवशेन वा।
परिसक्तमशक्त्या वा लोभेन प्रणयेन वा ॥
विक्रीतमभियुञ्जाने सङ्ग्रामे वाऽपवर्तिना ।

4085 43