पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
340
अधि १ अध्या
अभियास्पत्कर्म

4192 नेति कौटिल्यः-मन्त्रशक्तिश्रेयसी ; प्रज्ञाशास्त्रचक्षुर्हि राजा अल्पेनापि प्रयत्नेन मन्त्रमाधातुं शक्तः, परानुत्साहप्रभावत श्व सामादिभिर्योगोपनिषद्भ्यां चातिसन्धातुं; एवमुत्साहप्रभा- वमन्त्रशक्तीनायुत्तरोत्तराधिकोऽतिसंधत्ते ॥

 देशः पृथिवी; तस्यां हिमवत्समुद्रान्तरमुदीचीनं योजन- सहस्रपरिमाणमतियक्चक्रवर्तिक्षेत्रं तत्रारण्यो ग्राम्यः पात औ- दको भौमस्समो विषम इति विशेषाः। तेषु यथास्वबलवृद्धि- करं कर्म प्रयुञ्जीत । यत्रात्मनस्सैन्यव्यायामानां भूमिः अभूमिः परस्य, स उत्तमो देशः विपरीतोऽधम साधारणं मध्यमः ॥

 कालः शीतोष्णवर्षात्मा; तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगमिति विशेषाः । तेषु यथास्वबलवृद्धि करं कर्म प्रयुञ्जीत । यत्रात्मनस्सैन्यव्यायामानामृतुः अनृतुः परस्य ; स उत्तमः कालः विपरीतोऽधमः । साधारणो मध्यमः !

 " शक्तिदेशकालानां तु शक्तिः श्रेयसी" इत्याचार्याः- शक्तिमान् हि निम्नस्थलवतो देशस्य शीतोष्णवर्पवतश्च काल- स्य शक्तः प्रतीकारे भवति ।। 4131 "देशः श्रेयान्" इत्येके--स्थलगतो हि श्वा नकं विकर्षति विम्नगतो नक्रश्श्वानमिति ।।


12. पार्वत.