"कालश्श्रेयान्" इत्येके- “दिवा काकः कौशिकं हन्ति । 413 2 रात्रौ कौशिकः काकम्” इति ॥
नेति कौटिल्यः-परस्परसाधका हि शक्तिदेशकाला!; तैर- भ्युच्छ्रित : तृतीयं चतुर्थं वा दण्डस्यांशमूले पार्ष्ण्यां प्रत्यन्ताटवीषु च रक्षा विधाय कार्यसाधनसहं कोशदण्डं चादाय दक्षिणपु- राणभक्तमगृहीतनवभक्तमसंस्कृतदुर्गमामित्रं, वार्षिकं चास्य सख्यं, हैमनं च मुष्टिमुपहन्तुं मार्गशीर्षों यात्रां यायात् । हैमनं चास्य सस्यं वासन्तिकं च मुष्टिमुपहन्तं चैत्रीं यात्रां यायात् । क्षीण- तृणकाष्ठोदकमसंस्कृतदुर्गममित्रं, वासन्तिकं च अस्य सस्य वार्षिकी वा मुष्टिमुपहन्तुं ज्येष्ठामूलीयां यात्रां यायात् । अत्युष्ण- मल्पयवसेन्धनोदकं वा देश हेमन्ते यायात् ।।
तुषारदुर्दिनमगाधनिम्नप्रायं गहनतृणवृक्षं वा देश ग्रीष्मे यायात् ॥
स्वसैन्यव्यायामयोग्यं परस्यायोग्यं वर्षति यायात् । मार्गशीर्षी तैषीं चान्तरेण दीर्घकाला यात्रां यायात् । चै.
वी वैशाखी चान्तरेण मध्यमकालां ज्येष्ठामूलीयामाषाढीं चान्तरेण ह्रस्वकालामुपोषिष्यन् व्यसने चतुर्थी !!
व्यसनाभियानं विगृह्ययाने व्याख्यातम् ।। "प्रायशश्च" इत्याचार्या:--" परव्यसने यातव्यम्" इत्युप 414 1 दिशन्ति ॥
12, भ्युचितः.